(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.103. अध्यायः 103
Mahabharata - Udyoga Parva - Chapter Topics
नारदेन मातलिं भोगवतीं नीत्वा वरान्वेषणचोदनम् ॥ 1 ॥ तत्र सुमुखं नाम कंचन भुजगराजमभिरोचमानेन मातलिना नारदंप्रति तस्य जन्मकर्मादिप्रश्नः ॥ 2 ॥ नारदेन तस्य आर्यकनाम्नो भोगिनः पौत्रत्वे कीर्तिते मातलिना नारदंप्रति तद्धटनाभ्यर्थना ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

नारद उवाच। 5-103-0x(3690)(35415)
इयं भोगवती नाम पुरी वासुकिपालिता।
यादृशी देवराजस्य पुरी वर्याऽमरावती ॥ 5-103-1(35416)
एष शेषः स्थितो नागो येनेयं धार्यते सदा।
तपसा लोकमुख्येन प्रभावसहिता मही ॥ 5-103-2(35417)
श्वेताचलनिभाकारो दिव्याभरणभूषितः ।
सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः ॥ 5-103-3(35418)
इह नानाविधाकारा नानाविधविभूषणाः।
सुरसायाः सुता नागा निवसन्ति गतव्यथाः ॥ 5-103-4(35419)
मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः।
सहस्रसंख्या बलिन सर्वे रौद्राः स्वभावतः ॥ 5-103-5(35420)
सहस्रशिरसः केचित्केचित्पञ्चशताननाः ।
शतशीर्षास्तथा केचित्केचित्रिशिरसोऽपि च ॥ 5-103-6(35421)
द्विपञ्चशिरसः केचित्केचित्सप्तसुखास्तथा।
महाभोगा महाकायाः पर्वताभोगभोगिनः ॥ 5-103-7(35422)
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च।
नागानामेकवंशानां यथाश्रेष्ठं तु मे श्रुणु ॥ 5-103-8(35423)
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ।
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ॥ 5-103-9(35424)
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः।
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ॥ 5-103-10(35425)
आर्यको नन्दकश्चैव तथा कलशपोतकौ ।
कैलासकः पिञ्जरको नागश्चैरावतस्तथा ॥ 5-103-11(35426)
सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ ।
आप्तः कोटरकश्चैव शिखी निष्ठूरिकस्तथा ॥ 5-103-12(35427)
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः।
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः॥ 5-103-13(35428)
करवीरः पीठरकः संवृत्तो वृत्त एव च।
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ॥ 5-103-14(35429)
दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः ।
कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा ॥ 5-103-15(35430)
विरजा धारणश्चैव सुबाहुर्मुखरो जयः ।
बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा ॥ 5-103-16(35431)
एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः ।
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ॥ 5-103-17(35432)
कण्व उवाच। 5-103-18x(3691)
मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै।
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ॥ 5-103-18(35433)
मातलिरुवाच। 5-103-19x(3692)
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु।
द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः ॥ 5-103-19(35434)
कः पिता जननी चास्य कतमस्यैष भोगिनः।
वंशस्य कस्यैष महान्केतुभूत इव स्थितः ॥ 5-103-20(35435)
प्रणिधानेन धैर्येण रूपेण वयसा च मे।
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ॥ 5-103-21(35436)
कण्व उवाच। 5-103-22x(3693)
मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात्।
निवेदयामास तदा माहात्म्यं जन्म कर्म च ॥ 5-103-22(35437)
नारद उवाच। 5-103-23x(3694)
ऐरावतकुले जातः सुमुखो नाम नागराट्।
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ॥ 5-103-23(35438)
एतस्य हि पिता नागश्चिकुरो नाम मातले।
नचिराद्वैतनेयेन पञ्चत्वमुपपादितः ॥ 5-103-24(35439)
ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः ।
एष मे रुचितस्तात जामाता भुजगोत्तमः ॥ 5-103-25(35440)
क्रियतामत्र यत्नो वै प्रीतिमानस्म्यनेन वै।
अस्मै नागाय वै दातुं प्रियां दुहितरं मुने ॥ ॥ 5-103-26(35441)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्र्यधिकशततमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.